भारत में सभी ऑर्डर पर ₹1,000+ पर निःशुल्क डिलीवरी

श्री कामाख्या तंत्र कवच

यस्य स्मरणमात्रेण योगिनी-डाकिनी-गणाः । राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिकाः ॥2॥ क्षुत्पिपासा तथा निद्रा तथान्ये ये च विघ्नदाः । दूरादपि पलायन्ते कवचस्य प्रसादतः ॥3॥ निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः । समासक्तमनाश्चापि जपहोमादिकर्मसु ॥ भवेच्च मन्त्र-तन्त्राणां निर्विघ्नेन सु-सिद्धये ॥4॥ ~ अथ कवचम् ~ ॐ प्राच्यां रक्षतु मे तारा कामरुप-निवासिनी । आग्नेय्यां षोडशी पातु याम्यां धूमावती स

Kamakhya

••~ श्री कामाख्या कवच ~•• ~ श्रीमहादेव उवाच ~ श्रृणुष्व परमं गुह्यं महाभय- निवर्तकम् । कामाख्यायाः सुरश्रेष्ठ कवचं सर्वमंगलम् ॥1॥ यस्य स्मरणमात्रेण योगिनी-डाकिनी-गणाः । राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिकाः ॥2॥ क्षुत्पिपासा तथा निद्रा तथान्ये ये च विघ्नदाः । दूरादपि पलायन्ते कवचस्य प्रसादतः ॥3॥ निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः । समासक्तमनाश्चापि जपहोमादिकर्मसु ॥ भवेच्च मन्त्र-तन्त्राणां निर्विघ्नेन सु-सिद्धये ॥4॥ ~ अथ कवचम् ~ ॐ प्राच्यां रक्षतु मे तारा कामरुप-निवासिनी । आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥5॥ नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी । वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥6॥ कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी । ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥7॥ ऊर्ध्वं रक्षतु मे विद्या , मातङ्गी पीठवासिनी । सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥8॥ ब्रह्मरुपा महाविद्या सर्वविद्यामयी स्वयम् । शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥9॥ त्रिपुरा भ्रूयुगे पातु शर्वाणी पातु नासिकाम् ।चक्षुषी चण्डिका पातु श्रोत्रे नीलसरस्वती ॥10॥ मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती । जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥11॥ वाग्देवी वदनं पातु वक्षः पातु महेश्वरी । बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥12॥ पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी । उदरं पातु मे नित्यं महाविद्या महोदरी ॥13॥ उग्रतारा महादेवी जङ्घोरु परिरक्षतु । गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥14॥ पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी । रक्तमांसास्थिमज्जादीन्यातु देवी शवासना ॥15॥ महाभयेषु घोरेषु महाभय-निवारिणी । पातु देवी महामाया कामाख्या पीठ-वासिनी ॥16॥ भस्माचलगता दिव्य-सिंहासन-कृताश्रया । पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥17॥ रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् । तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥18॥ • फलश्रुति • इदं तु परमं गुह्यं कवचं मुनिसत्तम । कामाख्या-या मयोक्तं ते सर्वरक्षाकरं परम् ॥19॥ अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् । न तं स्पृशेद्भयं घोरं मन्त्रसिद्धिविरोधकम् ॥20॥ जायते च मनः सिद्धिर्निर्विघ्नेन महामते । इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत् ॥21॥ अव्याहताज्ञः स भवेत्-सर्वविद्या-विशारदः । सर्वत्र लभते सौख्यं मङ्गलं तु दिने दिने ॥22॥ यः पठेत्- प्रयतो भूत्वा कवचं चेदमद्भुतम् । स देव्याः पदवीं याति सत्यं सत्यं न संशयः ॥23॥ ÷• इति श्री कामाख्या कवचं सम्पूर्णम् •÷